|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.73. अध्यायः 073
Mahabharata - Karna Parva - Chapter Topics
युधिष्ठिराधिक्षेपादात्मवधोद्यतं पार्थं प्रति कृष्णेन तत्प्रतिनिधितया आत्मप्रशंसनचोदना॥ 1 ॥ अर्जुनेनात्मप्रशंसनानन्तरं युधिष्ठिरक्षमापनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-73-0x(5013)(58556)
इत्येवमुक्तस्तु जनार्दनेन
पार्थः प्रशस्याथ सुहृद्वचस्तत्।
ततोऽब्रवीदर्जुनो धर्मराज--
मनुक्तपूर्वं परुषं प्रसह्य॥ 8-73-1(58557)
मा त्वं राजन्व्याहरस्वाद्य पापं
त्वं तिष्ठसि क्रोशमात्रे व्यपेत्य।
भीमस्तु मामर्हति गर्हणाय
यो युध्यते सर्वलोकप्रवीरैः॥ 8-73-2(58558)
काले हि शत्रून्परिपीड्य वीरो
हत्वा प्रवीरान्वसुधाधिपानाम्।
रथप्रधानोत्तमनागमुख्या
युधिप्रवीरा निहताश्च शूराः॥ 8-73-3(58559)
सुदुष्करं कर्म करोति भीमः
कर्तुं यथा नार्हति कश्चिदन्यः।
रथादवस्कन्द्य गदां परामृशं--
स्तथा रणे हन्ति तथैव वारणान्॥ 8-73-4(58560)
स कुञ्जराणामधिकं सहस्रं
हत्वा नदंस्तुमुलं सिंहनादम्।
काम्भोजवानायुजपार्वतीया--
नीहामृगाभान्विनिहत्य वाजिनः॥ 8-73-5(58561)
महारथान्दविरदाञ्शैलकल्पा--
न्सहेत यः कुञ्जरान्वध्यमानान्।
असौ भीमो धार्तराष्ट्रेषु मग्नः
स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-6(58562)
वरासिना चाथ नराश्वकुञ्जरां--
स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन्।
प्रमृद्य पद्ध्यामहितांस्तु हन्ति
पुनश्च दोर्भ्यां शतमन्युविक्रमः॥ 8-73-7(58563)
महाबलो वैश्रवणान्तकोपमः
प्रसह्य हर्ता द्विषतां यशांसि।
स भीमसेनोऽर्हति गर्हणाय
न त्वं नित्यं रक्ष्यमाणः सुहृद्भिः॥ 8-73-8(58564)
कलिङ्गवङ्गाङ्गनिपादमागधा--
न्सदा महाशैलवलाहकोपमान्।
निहन्ति यः शत्रुगणाननेकशः
स मां हि वक्तुं प्रभवत्यमानगसम्॥ 8-73-9(58565)
संयुक्तमास्थाय रथं हि काले
धनुर्विधून्वञ्छरपूर्णमुष्टिः।
सृजेच्च यो बाणसङ्घान्परेषु
महाबलो मेघ इवाम्बुधाराः॥ 8-73-10(58566)
शतान्यष्टौ वारणानामदर्शय--
द्विशातितैः कुम्भघटाग्रहस्तैः।
यो भीमसेनो निहतारिसङ्घः
स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-11(58567)
रथाश्च नागाश्च हयाश्च राज--
न्भीमेनाजौ निहताः सङ्घशोऽद्य।
राजानश्च बहवो महाबलाः
स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-12(58568)
धृतराष्ट्रपुत्रा बलिनश्च येन
महाबला निहताः प्रायशो वै।
शूरो युद्धे ह्यप्रतिवार्यवीर्यः
स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-13(58569)
प्रतापयंस्तद्बलमुग्ररूपं
योऽसौ रमे धार्तराष्ट्रस्य वीरः।
एकः सहेताप्रतिसह्यपौरुष--
स्तेनास्मि वाच्यो न त्वया वै कदाचित्॥ 8-73-14(58570)
महारथा यत्र यत्रैव युद्धे
भिन्दन्ति सैन्यं तव कामतोऽद्य।
तत्रैव तत्रैव रणे महात्मा
दृढं भीमः परसङ्घानमृद्रात्॥ 8-73-15(58571)
तेनास्मि वाच्यो न त्वया हं कदाचि--
न्मा मा वोचः क्रूरमिहाद्य पार्थ।
नास्मद्विधो वै भवता तु वाच्यो
यथा भवान्सर्वलोकस्य वाच्यः॥ 8-73-16(58572)
एवं हि मा ते ब्रुवतो नरेन्द्र
कथं न दीर्येच्छतधाऽद्य जिह्वा।
अहो बतेदं सुनृशंसरूपं
कामादवोचस्त्वमिहाद्य यद्वै॥ 8-73-17(58573)
बलं न वाधिष्ठितं सत्तमानां
यत्क्षत्रियाणां बहुलं वदन्ति।
त्वं चाबलो भारत निष्ठुरोऽसि
त्वमेव मां वेत्सि यथाविधोऽहम्॥ 8-73-18(58574)
नकुलेन राजन्गजवाजियोधा
हताश्च वीराः सहसा समेत्य।
त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी
स मामुपालब्धुमरिन्दमोऽर्हति॥ 8-73-19(58575)
कृतं कर्म सहदेवेन दुष्करं
यो युध्यते परसैन्यावमर्दी।
न चाब्रवीत्किञ्चिदिहागतो बली
पश्यान्तरं तस्य चेवात्मनश्च॥ 8-73-20(58576)
धृष्टद्युम्नः सात्यकिर्द्रौपदेया
युधामन्युश्चोत्तमौजाः शिखण्डी।
एतेऽद्य युधि सम्प्रपीडिता--
स्ते मामुलपालब्धुमर्हन्ति न त्वम्॥ 8-73-21(58577)
त्वन्मूलमस्माभिरिदं हि वैरं
प्राप्तं तथा व्यसनं चातिघोरम्।
द्यूप्रमत्तेन कृतं त्वयाऽसकृ--
त्कस्मादुपालब्धुमिहार्हसि त्वम्॥ 8-73-22(58578)
त्वमेव राजन्सततं प्रमत्त--
स्त्वमेव मूढो भारतानामसाधुः।
त्वां प्राप्य राज्यं च विनष्टमेत--
त्प्राप्ता महत्पाण्डवाश्चापि दास्यम्॥ 8-73-23(58579)
त्वत्तः कृतोऽस्मकद्वनवासदुःखं
राज्यस्य नाशो ह्यभिमन्योश्च घोरः।
आत्मानमेवं सुनृशंसरूपं
ज्ञात्वा किमर्थं गर्हसे माद्य वीर॥ 8-73-24(58580)
लज्जस्व राजन्यदि तेऽस्ति लज्जा
तूष्णीम्भूतः पश्य सर्वं कृतघ्नः।
भीमो नित्यं समरस्य कर्ता
दर्पस्य भेत्ता पुनरेव नित्यम्॥ 8-73-25(58581)
स्वयं ह्यशक्तेन नरेन्द्र युद्धे
नरेण कार्या सततं क्षमैव।
बलं हि वाचि द्विजसत्तमानां
क्षात्रं द्विजा बाहुबलं वदन्ति॥ 8-73-26(58582)
त्वं वाग्बलो भारत निष्ठुरोऽसि
त्वमेव मां वेत्सि यथाविधोऽहम्।
घटामि नित्यं तव कर्तुमिष्टं
दारैः सुतैर्जीवितेनात्मना च॥ 8-73-27(58583)
एवञ्च मां वाक्छलाकैर्हिनत्सि
त्वत्तः सुखं न वयं विद्म किञ्चित्।
मा मामवंस्था द्रौपदीतल्पकसंस्थो
महारथान्प्रतिहन्मि त्वदर्थे॥ 8-73-28(58584)
सर्वातिशङ्की भवसि प्रमत्त--
स्त्वत्तः सुखं नाभिजानामि किञ्चित्।
प्रोक्तः स्वयं सत्यसन्धेन मृत्यु--
स्तव प्रियार्थं नरदेव युद्धे॥ 8-73-29(58585)
शिखण्डिनाम्ना प्रधने तवार्थे
मयाभिगुप्तेन हतश्च भीष्मः।
द्रोणो हतो यः सततोपकारी
धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्टः॥ 8-73-30(58586)
द्रौणिश्च रुद्धः सगणो महात्मा
तथापि ते वै वचनं नृशंसवत्।
दुःखं प्रियं ते नरदेव कर्तुं
यस्य प्रियं ते न करोम्यहं वै॥ 8-73-31(58587)
न युच्यते वै दिवि चेह यः पुमा--
न्यस्ते मदन्योऽप्रियमारभेत।
न चाभिनन्दामि तथाहि राज्यं
यतस्त्वमक्षेषु दृढं प्रसक्तः॥ 8-73-32(58588)
स्वयं कृतं पापमनार्यजुष्ट--
मस्माभिराजौ व्यसनं तितीर्षसि॥
अक्षेषु दोषा बहवो विधर्म्याः
श्रुतास्त्वया सहदेवोऽब्रवीद्यान्॥ 8-73-33(58589)
तान्नेच्छसि त्यक्तुमनार्यजुष्टा--
न्घोरे स्म सर्वे निरये त्वयाऽस्ताः।
त्वं देविता त्वत्कृते राज्यनाशं--
स्त्वत्सम्भवं व्यसनं नो नरेन्द्र॥ 8-73-34(58590)
मास्मान्क्रूरैर्षाक्प्रतोदैस्तुदस्त्वं
भूयो राजन्कोपयस्यल्पबुद्ध्या॥ 8-73-35(58591)
सञ्जय उवाच। 8-73-36x(5014)
एता वाचः परुषाः सव्यसाची
स्थिरप्रतिज्ञः श्रावयित्वा नरेन्द्रम्।
विनिः श्वसञ्ज्येष्ठमनिष्टमुक्त्वा
ततस्तु कोशादसिमुद्वबर्ह॥ 8-73-36(58592)
तमाह कृष्णः किमिदं पुनर्भवा--
न्विकोशमाकाशनिभं करोत्यसिम्।
प्रब्रूहि सत्यं पुनरुत्तरं सखे
वचः प्रवक्ष्याभि तवार्थसिद्धये॥ 8-73-37(58593)
इतीव पृष्टः पुरुषोत्तमेन
सुदुःखितः केशवमाह पार्थः।
अहं हनिष्ये स्वशरीरमेत--
त्प्रसह्य येनाहितमुक्तवान्गुरुम्॥ 8-73-38(58594)
निशम्य तत्पार्थवचोऽब्रवीदिदं
जनार्दनो धर्मभृतां वरिष्ठः।
प्रब्रूहि पार्थ स्वगुणानिहात्मन--
स्ततो हतात्मा भवसीति निश्चयः॥ 8-73-39(58595)
तथा तु कृष्णस्य वचो निशम्य
ततोऽर्जुनः प्राह धनुः प्रगृह्य।
युधिष्ठिरं धर्मभृतां वरिष्ठं
शृणुष्व राजन्निति दुर्वचः स्वयम्॥ 8-73-40(58596)
अर्जुन उवाच। 8-73-41x(5015)
न मादृशोऽन्यो नरदेव विद्यते
धनुर्धरो देवमृते पिनाकिनम्।
अहं हि तेनानुमतो महात्मना
क्षणेन हन्यां सचराचरं जगत्॥ 8-73-41(58597)
मया हि राजन्सदिगीश्वरा दिशो
विजित्य सर्वा भवतः कृता वशे।
स राजसूयश्च समाप्तदक्षिणः
सभा च दिव्या भवतो ममौजसा॥ 8-73-42(58598)
पाणी पृषत्कालिखिताविमौ पुन--
र्धनुश्च सव्ये विततं सबाणम्।
पादौ च मे लक्षणतः प्रशस्तौ
न मादृशं युद्धगतं जयन्ति॥ 8-73-43(58599)
हता उदीच्या निहताः प्रतीच्याः
प्राच्या निरस्ता दाक्षिणात्या विशस्ताः।
संशप्तकानां किञ्चिदेवावशिष्टं
सर्वस्य लोकस्य हतं मयाऽर्धम्॥ 8-73-44(58600)
शेते मया निहता शत्रुसेना
छिन्नैर्गात्रैर्भूमितले स्खलन्ती।
अनस्त्रज्ञान्नैव निहन्मि चास्त्रै--
स्तस्मान्न भस्मैव करोमि लोकान्॥ 8-73-45(58601)
जैत्रं रथं भीममास्थाय कृष्ण
यावच्छीघ्रं सूतपुत्रं निहन्तुम्।
राजा भवत्वद्य सुनिर्वृतोऽयं
कर्णं रणे नाशयितास्मि बाणैः॥ 8-73-46(58602)
इत्येवमुक्त्वा पुनराह पार्थो
युधिष्ठिरं धर्मभृतां वरिष्ठम्।
अद्यापुत्रा सूतमाता भवित्री
कुन्ती वाथो वा मया तेन वापि।
सत्यं वदाम्यद्य न कर्णमाजौ
शरैरहत्वा कवचं विमोक्ष्ये॥ 8-73-47(58603)
सञ्जय उवाच। 8-73-48x(5016)
इत्येवमुक्त्वा पुनरेव पार्थो
युधिष्ठिरं धर्मभृतां वरिष्ठम्।
विमुच्य शस्त्राणि धनुर्विसृज्य
कोशे च खङ्गं विनिधाय तूर्णम्॥ 8-73-48(58604)
स व्रीडया नम्रशिराः किरीटी
युधिष्ठिरं प्राञ्जलिरभ्युवाच।
प्रसीद राजन्क्षम यन्मयोक्तं
काले भवान्वेत्स्यति तन्नमस्ते॥ 8-73-49(58605)
ततस्तु पादावुपगृह्य पार्थः
समुत्थितो दीप्ततेजाः किरीटि।
प्रसाद्य राजानममित्रसाहं
स्थितोऽब्रवीच्चैनमभिप्रतप्तम्॥ 8-73-50(58606)
याम्येष भीमं समराद्विमोक्तुं
सर्वात्मना सूतपुत्रं च हन्तुम्।
भवत्प्रियार्थं मम जीवितं हि
ब्रवीमि सत्यं तदवेहि राजन्॥ 8-73-51(58607)
नेदं चिरात्क्षिप्रमिदं भविष्य--
दावर्ततेऽसावभियामि चैनम्।
अद्याप्यपुत्रा तेन हतेन राधा
कुन्ती मया वा तदिदं विद्धि राजन्॥ ॥ 8-73-52(58608)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिसप्ततितमोऽध्यायः॥ 73 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-73-29 सत्यसन्धेन भीष्मेण॥ 8-73-73 त्रिसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|